(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.86. अध्यायः 086
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-86-0x(4165)(42517)
विरथं तं समासाद्य चित्रसेनं यशस्विनम् ।
रथमारोपयामास विकर्णस्तनयस्तव ॥ 6-86-1(42518)
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्।
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ 6-86-2(42519)
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः ।
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ 6-86-3(42520)
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः ।
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥ 6-86-4(42521)
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि ।
भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥ 6-86-5(42522)
तेन सम्यक्प्रणीतानि शरजालानि मारिष ।
प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः ॥ 6-86-6(42523)
तथैव शरजालानि भीष्मोणास्तानि मारिष ।
आकाशे समदृश्यन्त स्वगमानां व्रजा इव ॥ 6-86-7(42524)
निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि ।
अदृश्यं समरे चक्रे शरजालेन भारत ॥ 6-86-8(42525)
ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः ।
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ 6-86-9(42526)
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः ।
चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ 6-86-10(42527)
तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् ।
नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ 6-86-11(42528)
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः।
आरुरोह रथं तूर्णं नकुलस्य महात्मनःक ॥ 6-86-12(42529)
यमावपि हि संक्रुद्धः समासाद्य रणे तदा ।
शरैः संछादयामास भीष्मः परपुरंजयः ॥ 6-86-13(42530)
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ।
जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ 6-86-14(42531)
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् ।
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥ 6-86-15(42532)
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् ।
महता रथवंशेन परिवव्रुः पितामहम् ॥ 6-86-16(42533)
स समन्तात्परिवृतः पिता देवव्रतस्तव।
चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ 6-86-17(42534)
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि।
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ 6-86-18(42535)
तर्जयानं रमे वीरांस्त्रासयानं च सायकैः ।
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ 6-86-19(42536)
रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम्।
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ 6-86-20(42537)
शिरांसि रथिनां भीष्मः पातयामास संयुगे।
तालेभ्यः परिपक्वानि फलानि कुशलो नरः ॥ 6-86-21(42538)
पतद्भिश्च महाराज शिरोभिर्धरणीतले।
बभूव तुमुलः शब्दः पततामश्मनामिव ॥ 6-86-22(42539)
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 6-86-23(42540)
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् ।
एकमेकं समाहूय युद्धायैवावतस्थिरे ॥ 6-86-24(42541)
शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-86-25(42542)
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे ।
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन् ॥ 6-86-26(42543)
सृंजयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे ।
सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ॥ 6-86-27(42544)
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो ॥ 6-86-28(42545)
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः ।
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ 6-86-29(42546)
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ।
ते हन्यमानाः समरे तावका भरतर्षभ ॥ 6-86-30(42547)
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्।
यथोत्साहं तु समरे निजघ्नुस्तावका रणे ॥ 6-86-31(42548)
तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् ।
वध्यतां समरे राजन्पार्षतेन महात्मना ॥ 6-86-32(42549)
तं श्रुत्वा निनदं घोरं तावकानां महारथौ ।
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ 6-86-33(42550)
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ ।
छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ 6-86-34(42551)
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः ।
आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः ॥ 6-86-35(42552)
ततो युधिष्ठिरो राजा महत्या सेनया वृतः।
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ॥ 6-86-36(42553)
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष ।
विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ॥ 6-86-37(42554)
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभः ।
अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥ 6-86-38(42555)
द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव ।
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ 6-86-39(42556)
दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते ।
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ 6-86-40(42557)
ततो दुर्योधनो राजा लोहितायति भास्करे।
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ 6-86-41(42558)
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्।
अस्तं गिरिमथारूढे अप्रकाशति भास्करे ॥ 6-86-42(42559)
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ।
गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे ॥ 6-86-43(42560)
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्।
घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ॥ 6-86-44(42561)
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः ।
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ 6-86-45(42562)
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्।
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ 6-86-46(42563)
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा।
ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ 6-86-47(42564)
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् ।
अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥ 6-86-48(42565)
दुर्योधनोऽपि नृपतिः परिवार्य महारणे।
भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥ 6-86-49(42566)
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः ।
परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति ॥ 6-86-50(42567)
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः।
परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ 6-86-51(42568)
एवमेते महाराज तावकाः पाण्डवैः सह।
पर्यवर्तन्त सहिता निशाकाले परंतप ॥ 6-86-52(42569)
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा ।
न्यवसन्त महाराज पूजयन्तः परस्परम् ॥ 6-86-53(42570)
रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि।
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ॥ 6-86-54(42571)
कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः ।
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ 6-86-55(42572)
मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् ।
न हि युद्धकथां कांचित्तत्राकुर्वन्महारथाः ॥ 6-86-56(42573)
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप ।
हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ॥ ॥ 6-86-57(42574)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे षडशीतितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.